(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.26. अध्यायः 026
Mahabharata - Shalya Parva - Chapter Topics
कृष्णार्जुनयोः संवादः॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥ भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः॥ 3 ॥


Mahabharata - Shalya Parva - Chapter Text

सञ्जय उवाच। 9-26-0x(5123)(61565)
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः।
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ॥ 9-26-1(61566)
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम्॥ 9-26-2(61567)
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः।
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः॥ 9-26-3(61568)
परिश्रान्तश्च नकुलः सहदेवश्च भारत।
योधयित्वा रणे पापान्धार्तराष्ट्रान्सहानुगान्॥ 9-26-4(61569)
दुर्योधनमतिक्रम्य त्रय एते व्यवस्थिन्ताः।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः॥ 9-26-5(61570)
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः।
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः॥ 9-26-6(61571)
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः।
छत्रेण ध्रियामणेन प्रेक्षमाणो मुहुर्मुहुः॥ 9-26-7(61572)
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः।
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि॥ 9-26-8(61573)
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम।
यावन्न विद्रवन्त्येते तावज्जहि सुयोधन्सम्॥ 9-26-9(61574)
यातु कश्चित्तुं पाञ्चाल्यं क्षिप्रमागम्यतामिति।
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी॥ 9-26-10(61575)
हत्वा तव बलं सर्वं सङ्ग्रमे धृतराष्ट्रजः।
जितान्पाण्डुसुतान्प्रत्वा रूपं धारयते महत्॥ 9-26-11(61576)
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः।
ध्रुवमेष्यति सङ्ग्रमे वधायैवात्मनो नृपः॥ 9-26-12(61577)
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत्।
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव।
यावेतावास्थितौ कृष्ण तावद्य नभविष्यतः॥ 9-26-13(61578)
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः।
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः॥ 9-26-14(61579)
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च।
रथानां तु शते शिष्टे द्वे एव तु जनार्दन।
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः॥ 9-26-15(61580)
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा।
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः॥ 9-26-16(61581)
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव।
मोक्षो न नूनं कालात्तु विद्यते भुवि कस्यचित्॥ 9-26-17(61582)
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्।
अद्याह्ना हि महाराजो हतामित्रो भविष्यति।
न हि मे मोक्ष्यते कश्चित्परेषामिह चिन्तये॥ 9-26-18(61583)
ये त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः।
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः॥ 9-26-19(61584)
अद्य युद्धे समुत्पन्नं दीर्घं राज्ञः प्रजागरम्।
अपनेष्यामि गान्धारिं घातयित्वा शितैः शरैः॥ 9-26-20(61585)
निकृत्या वै दुराचारो यानि रत्नानि सौबलः।
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम्॥ 9-26-21(61586)
अद्य वेत्स्यन्ति मच्छक्तिं सर्वा नागपुरे स्त्रियः।
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि॥ 9-26-22(61587)
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति।
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च मोक्ष्यति॥ 9-26-23(61588)
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम।
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्॥ 9-26-24(61589)
मम ह्येतदपर्याप्तं वाजिबृन्दमरिन्दम।
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम्॥ 9-26-25(61590)
सञ्जय उवाच। 9-26-26x(5124)
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना।
अचोदयद्धायन्राजन्दुर्योधनबलं प्रति॥ 9-26-26(61591)
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः।
भीमसेनोऽकर्जुनश्चैव सहदेवश्च मारिष।
प्रययुः सिंहनादेन दुर्योधनजिघांसया॥ 9-26-27(61592)
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान्।
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः॥ 9-26-28(61593)
सुदर्शनस्त्व मतो भीमसेनं समभ्ययात्।
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना॥ 9-26-29(61594)
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्॥ 9-26-30(61595)
ततो हि यत्नतः क्षिप्रं तवं पुत्रो जनाधिप।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्॥ 9-26-31(61596)
सोपाविशद्रथोपस्थे तव सुत्रेण ताडितः।
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्॥ 9-26-32(61597)
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशाम्पते।
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत्॥ 9-26-33(61598)
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः।
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह॥ 9-26-34(61599)
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः।
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ॥ 9-26-35(61600)
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः।
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्॥ 9-26-36(61601)
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः।
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः॥ 9-26-37(61602)
शिलाशितेन च विभो क्षुरप्रेण महायशाः।
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम्॥ 9-26-38(61603)
सत्येषुमथ चादत्त योधानां मिषतां ततः।
यथा सिंहो वने राजन्मृगं परि बुभुक्षितः॥ 9-26-39(61604)
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः।
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूओषितान्॥ 9-26-40(61605)
ततः प्रायात्त्वरन्पार्थो दीर्घकालं सुसंवृतम्।
मुञ्जन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति॥ 9-26-41(61606)
तमर्जुनः पृषत्कानां शतेन भरतर्षभ।
पूरयित्वा ततो वाहान्प्राहरत्तस्य धन्विनः॥ 9-26-42(61607)
ततः शरं समादाय यमदण्डोपमं तदा।
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव॥ 9-26-43(61608)
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना।
सुशर्माणं समासाद्य बिभेद हृदयं रणे॥ 9-26-44(61609)
स गतासुर्महाराज पपात धरणीतले।
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान्॥ 9-26-45(61610)
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान्।
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम्॥ 9-26-46(61611)
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान्।
अभ्यगाद्भारतीं सेनां हतशेषां महारथः॥ 9-26-47(61612)
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप।
सुदर्शनमदृश्यन्तं शरैश्चक्रे हसन्निव॥ 9-26-48(61613)
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत्।
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि॥ 9-26-49(61614)
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः।
परिवव्रू रमे भीमं किरन्तो विविधाञ्शरान्॥ 9-26-50(61615)
ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः।
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत्॥ 9-26-51(61616)
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ॥ 9-26-52(61617)
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः।
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत॥ 9-26-53(61618)
स तान्सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः।
तथैव तावका राजन्पाण्डवेयान्महारथान्।
शरवर्षेण महता समन्तात्पर्यवारयन्॥ 9-26-54(61619)
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह।
तावकानां च समरे पाण्डवेंयैर्युयुत्सताम्॥ 9-26-55(61620)
तत्र योधास्तदा पेतुः परस्परसमाहताः।
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान्॥ ॥ 9-26-56(61621)

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे षड्विंशोऽध्यायः॥ 26 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-26-17 मोक्षो नूनं कालसृष्टः इति क.पाठः॥ 9-26-26 षड्विंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.